राजस्थानप्रान्ते लब्धजन्मा ब्राह्मणकुलोत्पन्नः घण्टामाघः इत्युपाधिना विश्रुतः शिशुपालवधमहाकाव्यस्य प्रणेता महाकविमाघः संस्कृतकाव्यवियति दैदिप्यमाननक्षत्रमिव राराजते । असौ काव्यजगति महाकविभारविवत् अलङ्कृतशैल्या प्रवर्तकत्वेनापि स्मर्यते।विंशतिसर्गात्मकेन वीररसप्रधानेन ऐतिहासिकेतिवृत्तयुतेन एकेनैव महाकाव्येन स महती प्रसिद्धिमवाप । पाठकवृन्देषु महाकविकालिदासस्य यथा उपमा,महाकविभारवेर्यथार्थगौरवं महाकविदण्डिनश्च यथा पदलालित्यं सहृदयैः प्रशस्यते तथैव महाकविमाघस्येमे त्रयो गुणाः प्रशस्यन्ते । अमुष्य कवेः संस्कृतस्यान्यशास्त्रेष्वपि तथैव गतिरासीत् । जगत्यमुष्य प्रसिद्धिर्यथा कवित्वेन तद्वदेव विविधविषयज्ञत्वेनापि आसीत् । यद्यपि कृतिरेकैव विद्यते संस्कृतवाङ्मये शिशुपालवधमहाकाव्यम् इति किन्तु तद्गतविविध-विषयप्रतिपादकपद्यै-र्ज्ञायते यत् विविधविषयाधिकारी अयमासीदिति । माघस्य पाण्डित्यं श्रुतिविषयकं दर्शनविषयकं पौराणिकं संगीतशास्त्रविषयकं नाट्यशास्त्रविषयकं राजनीतिविषयकं युद्धविषयकम् आयुर्वेदशास्त्रविषयकं ज्योतिषशास्त्रविषयकं व्याकरणशास्त्रविषयकं काव्यशास्त्रविषयकं नीतिविषयकञ्चासीत् । संस्कृतजगति एकस्मिन्नेव कवौ नैकशास्त्रनिपुणत्वं प्रायः दुर्लभम् । शिशुपालवधमहाकाव्यस्थैः कानिचित् पद्यैः महाकवेः वैदुष्यं दृष्टुं शक्यते ।
श्रुतिविषयकज्ञानम् – महाकविमाघस्य श्रुतौ महत्यभिरुचिरासीत् । एतद्विषयकज्ञानमुष्य महत् प्रशंसनीयं वर्तते । एकादशसर्गस्थेन एकेन मालिनिवृत्तेन ज्ञातुं शक्यते तथ्यमेतत् –
प्रतिशरणमवशीर्णज्योतिरग्न्याहितानां
विविधविहितविरब्धैः सामिधेनीरधीत्य ।
कृतगुरुदुरितौध्वंसयध्वर्युवर्य्यै -
र्हुतमयमुपलीढे साधु सन्नाय्यमग्निः ।। 1
वैदिकमन्त्राणामुच्चारणम् उदात्तानुदात्तस्वरितरूपेण भवेदिति तस्याग्रहः । एतेषां स्वाराणां शुद्धतयोच्चारणेन फलमधिकं लभ्यते । स्वरपरिवर्तनेन अर्थोपि परिवर्तते । नियमस्यास्योल्लेखकुर्वता कविना प्रोक्तं चतुर्दशसर्गे –
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ।
शब्दशाननविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ।। 2
अन्यत्रापि –
निहन्त्यरीनेकपदे यः उदात्तः स्वरानिव ।
दर्शनविषयकज्ञानम् – महाकविमाघस्य कृते दर्शनशास्त्रस्य सर्वाङ्गिणज्ञानमासीत् । स विभिन्नदर्शनगतानां सिद्धान्तानां विवेचनं काव्ये यथावसरमकरोत् । साङ्ख्यदर्शनस्य तत्त्वानामुल्लेखः अमुना बहुधा कृतो वर्तते । प्रथमे सर्गे एव नारदद्वारा श्रीकृष्णस्य स्तुतिप्रसङ्गे स अवोचत्
उदासितारं निगृहीतमानसैः ,गृहीतमध्यात्मदृशा कथञ्चन ।
बहिर्विकारः प्रकृतेः पृथग्विदुः , पुरातनं त्वां पुरुषं पुराविदः ।। 3
योगशास्त्रस्य परिचयः महाकवेरनेन पद्येन मिलति –
मैत्र्यादिचित्तपरिकर्मविदो विधाय ,
क्लेशप्रहाणमिहलब्धसबीजयोगः ।
ख्यातिश्च सत्त्वपुरुषान्यतयाधिगम्य ,
वाञ्छन्ति तामपि समाधिभृतो निरोद्धुम् ।। 4
मीमांसादर्शनस्य परिचयः चतुर्दशसर्गस्थेन विंशतितमेन पद्येन लभते । अद्वैतवेदान्तस्यापि प्रदिपादनं यथावसरं विहितम् । ब्रह्मणः निर्गुणस्वरूपस्य प्रतिपादनं निम्नश्लोकेन कृतं वर्तते –
उदीर्णरागप्रतिरोधकं जनैरभीक्ष्णमक्षुण्णतयातिदुर्गमम् ।
उपेयुषो मोक्षपथं मनस्विनस्त्वमग्रभूमिर्निरपायसंश्रया ।।5
आस्तिकदर्शनैः सह नास्तिकदर्शनानामपि ज्ञानमासीत् कवेः कृते । बौद्धदर्शनस्य सिद्धान्तस्य उल्लेखं कुर्वन् प्रोक्तं कविः द्वितीयसर्गे –
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ।।6
पौराणिकज्ञानम् – महाकवेः माघस्य पौराणिकज्ञानमपि अपूर्वमासीत् । स रामायण-महाभारत-गीता-पुराणप्रभृतीनां ग्रन्थानां पूर्णाध्ययनं कृतवानासीत् । शिशुपालवधमहाकाव्ये अधिकाधिकं ज्ञानस्यास्य प्रयोगः कृतः कविना । नारदाय चिरन्तनो मुनिः , हिरण्यगर्भाङ्गभूः इति संज्ञायाः, बलरामाय सीरपाणिः रेवतीजानिः , मुसलपाणिः इति संज्ञायाः , राहोः कृते सैहिकेयः इति , सूर्याय अनूरूसारथिः इति , श्रीकृष्णाय मुरद्विष् इत्यादिसंज्ञानां प्रयोगः पौराणिकाख्यानं प्रति सूचयति । 7
संगीतशास्त्रस्य ज्ञानम् – महाकविमाघः सङ्गीतशास्त्रस्यापि वेत्तासीत् । स अनेकस्थलेषु संगीतशास्त्रस्य सिद्धान्तान् प्रस्तौति । प्रथमसर्गस्य दशमं पद्यं तस्य संगीतनिपुणतां दर्शयति –
रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्ग्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ।।8
नाट्यशास्त्रस्य ज्ञानम् – महाकवेः माघस्य नाट्यशास्त्रविषयकज्ञानमपि महत् श्लाघनीयं वर्तते । शेलूषप्रभृतिपारिभाषिकशब्दाः तेषां नाट्यनैपुण्यमेव सूचयति । विंशतितमे सर्गे श्लेषद्वारा नाट्याङ्गानां वर्णनं कृतं माघेन तद्यथा –
दधतस्तनिमानमानुपूर्व्या , वभुरक्षिश्रवसो मुखे विशालाः ।
भरतज्ञकविप्रणीतकाव्य – ग्रथिताङ्का इव नाटकप्रपञ्चाः ।।9
अन्यत्र नाटकस्य उपमा यज्ञेन कृता वर्तते –
स्वादयन् रसमनेकसंस्कृतप्राकृतैरकृतपात्रसङ्करैः ।
भावशुद्धिविहितैर्मुदं जनो नाटकैरिव बभार भोजनैः ।।10
राजनैतिकविषयकं ज्ञानम् – महाकविमाघस्य राजनीतिविषयकं ज्ञानम् अत्यन्तमुत्कृष्टं वर्तते । राजनीतेः विविधपक्षान् स बहु सम्यक्तया जानाति स्म । राजनीतिविषयकपारिभाषिकशब्दानामसौ बहुत्र प्रयोगमकरोत् । द्वितीयसर्गे उद्धव-बलरामयोः , राजसूययज्ञावसरे युधिष्ठिर-भीमयोश्च संवादः राजनीतिवैदुष्यमेव प्रदर्शयति । स काव्ये भारतीयसंस्कृत्यनुरूपं राजनीतेः वर्णनमकरोत् । संस्कृतसाहित्यजगति शिशुपालवधसदृशं राजनीतेः वर्णनमन्यत्र दुर्लभं वर्तते । द्वितीयसर्गे अस्य बाहुल्यं वर्तते तद्यथा-
स्वशक्त्युपचये केचित् परस्य व्यसनेपरे ।
यानमाहुस्तदासीनं त्वामुत्थापयति द्वयम् ।।11
विपक्षमखिलीकृत्य प्रतिष्ठा खलु दुर्लभा ।
अनीत्वा पङ्कता धूलिमुदकं नावतिष्ठते ।।12
पारिभाषिकशब्दानां प्रयोगः , यथा –
षड्गुणाः शक्तयस्तिस्रः सिद्धयश्चोदयास्त्रयः ।
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।।13
बुद्धिशस्त्रः प्रकृत्यङ्गो धनसंवृत्तिकञ्चुकः ।
चारेक्षणो दूतमुखः पुरुषः कोपि पार्थिवः ।। 14इत्यादि ।
आयुर्वेदशास्त्रस्य ज्ञानम् – महाकविमाघस्य कृते आयुर्वेदस्यापि विवेकः आसीत् । काव्ये विहितप्रयोगैः ज्ञायते यत् स साङ्गोपाङ्गमायुर्वेदम् अधीतवानिति। द्वितीयसर्गस्य श्लोकोयं दृष्टव्यः –
चतुर्थोपायसाध्ये तु रिपौ सान्त्वमपक्रिया ।
स्वेद्यमामज्वरं प्राज्ञः कोम्भसा परिषिञ्चिति ।।15
राजयक्ष्माख्यो रोगः समस्तरोगाणां राजा इव वर्तते , इत्यभिहितं कविना-
राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ।16 इति
एतदतिरिक्तं रसायनसेवनस्य विधिः , व्यायामस्योपयोगिता , कस्मिन् रोगे उपवासः कर्त्तव्य इत्यादिविषयानामपि सम्यग्विवेचनं विहितं कविना । काव्ये एकत्र मृगीरोगिणः चित्रमपि असौ स्वपद्यैः प्रास्तौत् ।
ज्योतिषशास्त्रस्य ज्ञानम् – शिशुपालवधमहाकाव्याध्ययनेन ज्ञायते यत् कविः ज्योतिषशास्त्रस्यापि ज्ञातासीत् । तृतीयसर्गे पुष्परथस्योपमा कविना पुष्यनक्षत्रेण विहिता । यथा पुष्यनक्षत्रं सर्वसिद्धिप्रदायकं वर्तते तद्वदेव पुष्परथमपि सर्वकार्यसिद्धिकारकं वर्तते ।17 प्रथमसर्गे केतूदयस्य फलमदर्शयत् कविः –
व्योम्नीव भ्रकुटिच्छलेन वदने केतुश्चकारास्पदम् ।18 इति
ज्योतिषशास्त्रानुसारं सूर्यं विहाय यदि चन्द्रमा अन्ययोः ग्रहयोः मध्ये स्थितो भवति तर्हि दुर्धरा इति योगः भवति । अस्यैव सुन्दरतया वर्णनं कविना कृतमस्ति त्रयोदशसर्गे –
पवनात्मचन्द्रसुतमध्यवर्तिना , नितरामरोचि रुचिरेण चक्रिणा ।
दधतेव योगमुभयग्रहान्तरस्थितिकारितं दुरुधराख्यमिन्दुनः ।।19
व्याकरणशास्त्रस्य ज्ञानम् – महाकविमाघस्य व्याकरणशास्त्रे पूर्णाधिकार आसीत् । व्याकरणस्य नीरसपरिभाषा अपि सुन्दरोपमाभिः सरसाः विहिताः । शिशुपालवधस्य प्रतिसर्गं व्याकरणविषयकपाण्डित्यं दृष्टुं शक्नुमो वयम् । एकस्मिन् श्लोके स व्याकरणशास्त्रस्य महाभाष्य-काशिकावृत्त्यादिग्रन्थं संकेतयति,तद्यथा –
अनुत्सूत्रपदन्यासा सद्धृत्तिः सन्निबन्धना ।
शब्दविद्येव नो भाति राजनीतिरपस्पशा ।।20
एकस्मिन् पद्ये कविः परिभाषायाः लक्षणं कुर्वद् शिशुपालस्य आज्ञया सह तस्याः तुलनां कृतवान् –
परितः प्रमिताक्षरापि सर्वविषयं व्याप्तवती गता प्रतिष्ठाम् ।
न खलु प्रतिहन्यते कुतश्चित् परिभाषेव गरीयसी यदाज्ञा ।। 21
एकस्मिन् पद्ये धातोः कर्तृवाच्यस्य कर्मवाच्यस्य सम्यक्तया वर्णनं कृतमस्ति –
केवलं दधति कर्त्तृवाचिनः प्रत्ययानिह न जातु कर्मणि ।
धातवः सृजति संहृशास्तयः स्तौतिरत्र विपरीतकारकः ।। 22
एवमेव दशमे सर्गे उपसर्गेण धात्वर्थो बलादन्यत्र नीयते इति श्लोकांशं साधयन् कविः सम्यग्रूपेण प्रतिपादितवान् ।
काव्यशास्त्रविषयकज्ञानम् - यथा ज्ञातमस्माभिः यत् महाकविः माघः तत्कालीन-मूर्धन्यविद्वान् कविः आसीत् । अमुष्य पाण्डित्यं सर्वाङ्गीणमासीत् । काव्यशास्त्रस्य सिद्धान्तान् पूर्णज्ञाता आसीत् । प्रस्तुतकाव्येपि यथावसरं काव्यशास्त्रस्यस्य सिद्धान्तानसौ प्रत्यपादयत् । सत्कवेः स्वरूपं प्रकटयता प्रोक्तममुना -
शब्दार्थौ सत्कविरिव द्वयं विद्वानपेक्षते ।
शब्दार्थौ कीदृशौ भवेतामिति विवेचयन् भणति कविः -
स्थायिनोर्थे प्रवर्तन्ते भावाः सञ्चारिणो यथा ।
रसस्यैकस्य भूयांसस्तथा नेतुर्महीभृतः ।।23
कविमाघः चित्रकाव्यप्रणयने निपुणः आसीत् । स काव्ये पदे पदे चित्रालङ्कारस्य हृदयाकर्षकवर्णनं कृतवान् । एकत्र तु सम्पूर्णश्लोके केवलम् एकाक्षरस्यैव प्रयोगं कृत्वा स्वप्रतिभामप्रदर्शयत् –
दाददो दुद्ददुद्दादी दूददीदददूददोः ।
दुद्दादं दददे दुद्दे दादादददपोददः ।।24
उपसंहारः – उपर्युक्तविवेचनैः निष्कर्षोयं प्राप्यते यत् महाकविमाघः संस्कृतजगतः सर्वश्रेष्ठः विद्वान् आसीत् । महाकविकालिदासे सरसता महाकविभारवौ राजनीतिपटुता भट्टकवौ व्याकरणकुशलता श्रीहर्षे दार्शनिकनिपुणता काममधिकाधिकं स्यात् किन्तु सर्वशास्त्राधिकारत्वात् माघे सर्वे गुणाः विद्यन्ते । अत एव उक्तं द्विवेदीमहोदयेन –
भारविः राजनीतिज्ञः कालिदासो महाकविः ।
भट्टि व्याकरणज्ञाता माघे सन्ति बहुज्ञता ।
सन्दर्भसूची
1. शिशुपालवधमहाकाव्यम् 11/41
2. शिशुपालवधमहाकाव्यम् 14/24
3. शिशुपालवधमहाकाव्यम् 1/33
4. शिशुपालवधमहाकाव्यम् 4/55
5. शिशुपालवधमहाकाव्यम् 1/32
6. शिशुपालवधमहाकाव्यम् 2/28
7. शिशुपालवधमहाकाव्यम् 16/11
8. शिशुपालवधमहाकाव्यम् 1/10
9. शिशुपालवधमहाकाव्यम् 20/44
10. शिशुपालवधमहाकाव्यम् 14/50
11. शिशुपालवधमहाकाव्यम् 2/57
12. शिशुपालवधमहाकाव्यम् 2/34
13. शिशुपालवधमहाकाव्यम् 2/26
14. शिशुपालवधमहाकाव्यम् 2/82
15. शिशुपालवधमहाकाव्यम् 2/54
16. शिशुपालवधमहाकाव्यम् 2/96
17. शिशुपालवधमहाकाव्यम् 3/21
18. शिशुपालवधमहाकाव्यम् 1
19. शिशुपालवधमहाकाव्यम् 13/21
20. शिशुपालवधमहाकाव्यम् 2/112
21. शिशुपालवधमहाकाव्यम् 16/80
22. शिशुपालवधमहाकाव्यम् 14/66
23. शिशुपालवधमहाकाव्यम् 2/89
24. शिशुपालवधमहाकाव्यम् 19/114
सहायकाचार्यः (साहित्यविभागः)
राष्ट्रियसंस्कृतसंस्थानम् , मा.वि.वि.
जयपुरपरिसरः
0 comments:
Post a Comment