शुकनासोपदेशस्य प्रश्नोत्तराणि
1. शुकनासोपदेशः कस्य काव्यस्य भागः अस्ति ? – कादम्बरीकथाकाव्यस्य ।
2. कादम्बर्याः लेखकः कः ? – महाकविबाणभट्टः ।
3. कादम्बरी कीदृशी रचना वर्तते ? – कथा
4. कादम्बर्याः नायकनायिके के स्तः ? – नायकः चन्द्रापीडः नायिका च कादम्बरी
5. चन्द्रापीडः कस्य पुत्रः आसीत् – तारापीडस्य
6. कः कस्य यौवराज्याभिषेकं चिकीर्षुः ? – राजा तारापीडः चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः ।
7. राजा तारापीडः कान् उपकरणसम्भारसंग्रहार्थम् आदिदेश ? – प्रतीहारान् ।
8. तारापीडस्य मन्त्री (प्रधान-अमात्यः) कः आसीत् ? – शुकनासः
9. शुकनासः कम् उपदिशति ? – चन्द्रापीडम् ।
10. चन्द्रापीडाय उपेदशस्य आवश्यकता कथं नासीत् ? – यतो हि स विदितवेदितव्यः अधीतसर्वशास्त्रः आसीत् ।
11. यौवनप्रभवं तमः कीदृशम् आसीत् ? – अभानुभेद्यम् , अरत्नालोकोच्छेद्यम्, अप्रदीपप्रभापनेयम् अतिगहनं तमो यौवनप्रभवं वर्तते ।
12. अपरिणामोपशमः कः ? – लक्ष्मीमदः
13. लक्ष्मीमदः कीदृशो भवति ? – अपरिणामोपशमः दारुणः भवति ।
14. अशिशिरोपचारहार्यः कः ? – दर्पदाहज्वरोष्मा ।
15. सततम् अमूलमन्त्रशम्यः कः ? – विषयविषास्वादमोहः ।
16. अस्नानशौचबाध्यः कः ? – रागमलावलेपः ।
17. राज्यसुखसन्निपातनिद्रा कीदृशी भवति ? – घोरा अक्षपावसानप्रबोधा भवति ।
18. अनर्थपरम्परा का ? – गर्भेश्वरत्वम् अभिनवयौवनत्वम् अप्रतिमरूपत्वम् अमानुषशक्तित्वञ्च ।
19. यौवनारम्भे किं भवति ? – प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यम् उपयाति बुद्धिः । अनुज्झितधवलतापि सरागेव भवति यूनां दृष्टिः ।
20. इन्द्रियहरिणहारिणी का ? – उपभोगमृगतृष्णिका ।
21. दिङ्मोह इव उन्मार्गप्रवर्तकः कः ? – विषयेषु अत्यासङ्गः ।
22. उपदेशगुणाः सुखेन कुत्र कथमिव च विशन्ति ? – । यथा रजनिकरगभस्तयः स्फटिकमणौ सुखेन विशन्ति तथैव अपगतमले हि मनसि उपदेशगुणाः सुखेन विशन्ति ।
23. अमलम् अपि गुरुवचनं कस्य महत् शूलम् उपजनयति ? – अभव्यस्य
24. उपदेशस्य कालः कः वर्तते ? – अनास्वादितविषयरसः एव उपदेशस्य कालः वर्तते ।
25. उपदिष्टं (उपदेशः) कुत्र कथमिव च गलति ? – कुसुमशरप्रहारजर्जिते हि हृदये जलमिव उपदिष्टं गलति ।
26. अतीतज्योतिरालोकः कः ? – गुरुपदेशः ।
27. असुवर्णविरचनम् अग्राम्यकर्णाभरणम् किम् ? – गुरुपदेशः ।
28. अखिलमलप्रक्षालनक्षमम् अजलं स्नानं किम् ? – गुरुपदेशः ।
29. अनुपजातपलितादिवैरुप्यम् अजरं वृद्धत्वं किम् ? – गुरुपदेशः ।
30. नोद्वेगकरः प्रजागरः कः ? – गुरुपदेशः ।
31. केषाम् उपदेष्टारः विरलाः ? - राज्ञाम्
32. राजप्रकृतिः कीदृशी भवति ? – अहंकारदाहज्वरमूर्च्छान्धकारिता विह्वला भवति राजप्रकृतिः ।
33. राज्यविषविकारतन्द्राप्रद्रा का ? – राजलक्ष्मीः ।
34. सुभटखड्गमण्डलोत्पलवनविभ्रमभ्
35. लक्ष्मीः कस्मात् कानि-कानि विरहविनोदचिह्नानि गृहीत्वा क्षीरसागरात् उद्गता ?
पारिजातपल्लवेभ्यः | रागम् |
इन्दुशकलात् | एकान्तवक्रताम् |
उच्चैःश्रवसः | चञ्चलताम् |
कालकूटात् | मोहनशक्तिम् |
मदिरायाः | मदम् |
कौस्तुभमणेः | अतिनैष्ठुर्यम् |
36. दृढगुणपाशसन्दाननिष्पन्दीकृतापि का नश्यति ? – लक्ष्मीः
37. उद्दामदर्पभटसहस्रोल्लासितासि
38. मदजलदुर्दिनान्धकारगजघटितघनघटा
39. पातालगुहेव तमोबहुला का ? – लक्ष्मीः ।
40. लक्ष्मीः अपवित्रमिव कं न स्पृशति ? – गुणवन्तम् ।
41. लक्ष्मीः अमङ्गलम् इव कं न बहु मन्यते ? – उदारसत्वम् ।
42. लक्ष्मीः कम् अनिमित्तम् इव न पश्यति ? – सुजनम् ।
43. लक्ष्मीः कम् अहिम् इव लङ्घयति ? – अभिजातम् ।
44. लक्ष्मीः कं दुःस्वप्नमिव न स्मरति ? – दातारम् ।
45. लक्ष्मीः कं पातकिनमिव नोपसर्पति ? – विनीतम् ।
46. लक्ष्मीः कम् उन्मत्तमिव उपहसति ? – मनस्विनम् ।
47. लक्ष्मीः केषाम् व्याधगीतिः ? – इन्द्रियमृगाणाम् ।
48. लक्ष्मीः केषां परामर्शधूमलेखा विद्यते ? – सच्चरित्रचित्राणाम् ।
49. केषां विभ्रमशय्या लक्ष्मीः ? – मोहदीर्घनिद्राणाम् ।
50. धनमदपिशाचिकानां लक्ष्मी का ? – निवासजीर्णवलभी ।
51. लक्ष्मीः केषां पुरःपताका ? – सर्वाविनयानाम् ।
52. का खलु पुरुषोत्तमरतापि खलजनप्रिया ? – लक्ष्मीः
53. निम्नाङ्कितशब्दानाम् अर्थो लेख्यः –
शब्दः | अर्थः |
निम्नगा | नदी |
अपानभूमिः | मधुशाला |
दरी | गुहा |
प्रावृट् | वृष्टिः |
विसर्पणभूमिः | पीडास्थली |
पुस्तमयी | पुत्तलिका अपि |
अप्रतिबुद्धः | अज्ञानी |
54. लक्ष्मीः क्रोधावेगग्राहाणां का ? – उत्पत्तिनिम्नगा ।
55. लक्ष्मीः कस्य वध्यशाला ? – साधुभावस्य ।
56. धर्मेन्दुमण्डलस्य लक्ष्मीः का ? – राहुजिह्वा ।
57. राज्ञां परलोकदर्शनं केन अपसार्यते ? – आतपत्रमण्डलेन ।
58. राज्ञा हृदयं केन मलिनीक्रियते ? – अग्निकार्यधूमेन ।
59. के कुलीरा इव तिर्यक् भ्रमन्ति ? – केचित् राजानः ।
60. केचिद् राजानः दर्शनप्रदानमपि किं गणयन्ति ? – अनुग्रहम्
61. केचिद् राजानः उपकारपक्षे किं स्थापयन्ति ? – दृष्टिपातम् ।
Milan Tomic
0 comments:
Post a Comment