सर्वेषु महाकविप्रबन्धेषु रस एव जीवातुभूतः । स च रसो विभावानुभावव्यभिचारिणाम् औचित्येन काव्ये सन्निवेशात् सिद्ध्यति । प्राणभूतस्य रसस्य प्रतीतौ ये विघ्नकारिणः ते सर्वेऽपि काव्ये दोषा , अत एव हेयाश्च । आनन्दवर्धनाचार्यः दोषान् इमान् अनौचित्यशब्देन प्रदिपादयति । काव्यशास्त्रे अनौचित्यसिद्धान्तस्य आविष्कारः आनन्दवर्धनेन कृतः । तेनैवोक्तम् –
अनौचित्यादृते नान्यद् रसभङ्गस्य कारणम् ।
प्रसिद्धौचित्यबन्धस्तु रसस्योपनिषत्परा ।। 1
विवक्षितरसादिप्रतीतिविघ्नविधायित्वं नाम अनौचित्यसामान्यलक्षणम् । इदञ्च अनौचित्यं द्विविधं – अर्थविषयं शब्दविषयञ्चेति । तत्र विभावानुभावव्यभिचारिणाम् अयथायथं रसेषु यो विनियोगस्तन्मात्रलक्षणम् अर्थविषयमनौचित्यम् । विषयेऽस्मिन् विस्तरेण विचारः स्वयम् आनन्दवर्धनाचार्येण ध्वन्यालोके विहितः । शब्दविषयकम् अनौचित्यं कीदृशं भवेदिति आचार्यमहिमभट्टः व्यक्तिविवेकस्य द्वितीयविमर्शे सविस्तरं प्रत्यपादयत् । तेनोक्तम् -
अपरं पुनः बहिरङ्गं (शब्दविषयकमनौचित्यम्) बहुप्रकारं सम्भवति ।2 तद्यथा -
· विधेयाविमर्शः
· प्रक्रमभेदः
· क्रमभेदः
· पौनरुक्त्यम्
· वाच्यवचनञ्चेति
पत्रस्य विषयानुगुणं शब्दानौचित्यप्रकारेषु तृतीयः क्रमभेदः सोदाहरणमिह वर्ण्यते –
शब्दानौचित्यप्रकारः क्रमभेदः
क्रमस्य परिपाट्या भेद उल्लङ्घनं क्रमभेदः । व्युत्क्रम इति यावत् । अर्थात् शब्दविशेषस्य प्रयोगे यः क्रमः पूर्वनिर्धारितो वर्तते तस्य भेदे नाशे क्रमभेदविषयकम् अनौचित्यं भवति । व्यतिक्रमोऽयं प्रमुखतया सर्वनामशब्दानां निपातानां च प्रयोगे सम्भवति । अतोऽत्रायं क्रमभेदः द्विविधः प्रोक्तः –
1. सर्वनाम्नां प्रयोगे क्रमभेदः ।
2. निपातानां प्रयोगे क्रमभेदः ।
सर्वनाम्नां प्रयोगे क्रमभेदस्य प्रथममुदाहरणं तावद्यथा –
तीर्थे तदीये गजसेतुबन्धात् प्रतीपगामुत्तरतोऽस्य गङ्गाम् । 3
महाकविकालिदसप्रणीतरघुवंशमहाकाव्यस्य षोडशस्य सर्गस्य त्रयस्त्रिंशत्तमं पद्यमेतत् । अस्मिन् पद्ये कुशद्वारा विन्ध्यगिरेः तीर्थे गङ्गावतरणस्योल्लेखो वर्तते । अत्र परामर्शनीयविषयम् (गङ्गाम् )अनुक्त्वैव तस्य यः ‘तदीय’ इति सर्वनामपरामर्शो विहितः असौ क्रमभेदो दोषः । वस्तुतः सर्वनाम्नः विषयो भवति प्रकरणप्राप्तोऽर्थः , न तु अग्रे वक्तव्योऽर्थः । यतो हि सः सर्वनामपरामर्शः स्मरणरूपपरामर्श एव भवति । स्मृतेश्च विषय अनुभूत एव भवति न तु अनुभविष्यमाणः । अत्र प्रतीतिमात्रम् अनुभवः अभिमतः न इन्द्रियजनितप्रत्यक्षभावः । अत्र गङ्गार्थः प्रतीतपूर्वो न विद्यते यस्य परामर्शो भवेदतः क्रमभेदो दोषः ।
जिज्ञासा – यदि स्मृतिपरामर्शकस्य तच्छब्दस्यानुभूत एवार्थो विषय इत्युच्यते तर्हि ये अत्यन्तपरोक्षा रामादयः सन्ति तेषां काव्ये तच्छब्देन कविना कथं परामर्शः क्रियते ।
समाधानम् - येन विना यन्न उपपद्ये तस्य तदपेक्षा भवत्येव । स्मृतिश्च प्रतीतिमात्रेण विना अनुपपद्यमाना भवति अतोऽत्र तस्याः प्रतीतेरावश्यकता भवत्येव । न ऐन्द्रियिकप्रतीत्यपेक्षिणी , ऐन्द्रियिकप्रतीतिं विनापि शब्दादिभ्यः प्रतीतौ तस्याः सम्भवदर्शनात् । रामादीनां च यदि नैन्द्रियिकी प्रतीतिः तदा शब्दात् प्रसिद्धेर्वा प्रतीतिरस्तु । तन्निबन्धनश्च स्मृतिपरामर्शकेन तच्छब्देन परामर्श इति न कश्चित् विरोधः ।
जिज्ञासा - पदार्थबुद्धौ उपक्रमे एव अयमवभासते दोषः यत्र पदार्थपौर्वापर्यप्रकाशः यत्समाश्रयोऽयं दोष उद्घोष्यते , न वाक्यार्थविमर्शदशायाम् । तत्र हि न पौर्वापर्यप्रतिनियमावभासः तस्य निरंशत्वाद् । बहिरङ्गा च पदार्थबुद्धिः अन्तरङ्गश्च वाक्यार्थविमर्शः इति कथमयं दोषः ?
समाधानम् – सत्यम् , अस्त्येतत् । किन्तु स वाक्यार्थविमर्शः प्रवर्तमानो वक्त्रभिप्रायप्रतिरूप एव प्रवर्तते , नान्यादृशः तत्संचारमयत्वाच्छब्दव्यवहारस्य । यदाहुः – ‘वक्तुरभिप्रायं सूचयेयुः’ इति । तत्र चासौ सूक्ष्मतया अनभिव्यक्तपदार्थस्वरूपः स्थित एव पदार्थबुद्धौ स्थूलतया केवलं व्यक्तोऽवभासते इति पदार्थसमाश्रयोऽयं दोषः तत्रापि दुर्निषेध एव ।
न चात्र तीर्थे तदीये इत्यादिपद्ये प्रमादजः पादयोः पौर्वापर्यविपर्यय इति शक्यते वक्तुम् यतो हि तत्रापि गङ्गाप्रतीपगमनहेतोः शाब्दस्य तदीयतीर्थाभिधानव्यवधाने सति अन्यस्य प्रक्रमभेददोषस्याविर्भावापत्तेः । तेन पादयोर्विपर्ययः शाब्दस्य च हेतोः गङ्गाविशेषणमुखेन अर्थत्वम् इत्युभयविपर्ययोऽत्र श्रेयान् इति , उच्यते च –
परामृश्यमनुक्त्वैव परामर्शोऽस्य यस्तदा ।
स दोषो वक्ष्यमाणार्थसंवित्तावक्षमो हि सः ।।4
सर्वनाम्नां प्रयोगे क्रमभेदस्य द्वितीयमुदाहरणं तावद्यथा –
‘नवजलधरः सन्नद्धोऽयं न दृप्तनिशाचर’ इति 5
अत्र हि आरोपनिवृत्तौ तद्विषयवाचिनोः सुरधनुर्धारासारशब्दयोरिव नवजलधरपदस्यापि पूर्वं पश्चाद् वा ‘इदम्’ इति शब्दः प्रयोक्तव्यः । तात्पर्यमस्ति अन्यस्य अन्यत्वेन प्रतीतिः भ्रमः आरोपो वा । यथा नवजलधरस्य सन्नद्धदृप्तनिशाचरत्वेन प्रतीतिः आरोपः । तन्निवृत्तौ अत्र वक्ष्यमाणायाम् आरोपविषयस्य जलधरादेर्वस्तुसतः प्रकाशमानस्य इदम् आदिशब्देन निर्देशः स्यात् ।
‘शुक्तिकेयं न रजतम्’ इति तथैव ‘नवजलधरोऽयं सन्नद्धः न दृप्तनिशाचर’ इत्येष क्रमो न्याय्यः । किन्त्वत्र यः दृप्तनिशाचरविशेषणवाचिनः सन्नद्धपदानन्तरं तस्य यः प्रयोगो विहितः स क्रमभेदो दोषः।
निपातानां प्रयोगे क्रमभेदस्य प्रथममुदाहरणं तावद्यथा –
मीलितं यदभिरामताधिके साधु चन्द्रमसि पुष्करैः कृतम् ।
उद्यता जयिनि कामिनीमुखे तेन साहसमनुष्ठितं पुनः ।।6 इति
अत्र तेन साहसमनुष्ठितं पुनः इत्यत्र ‘पुनः’ इतिनिपातशब्दस्य प्रयोगे क्रमभेददोषो विद्यते , दोषस्यास्य परिहाराय शब्दोयं ‘तेन’ इत्यतोऽनन्तरं वक्तव्यः ।
निपातानां प्रयोगे क्रमभेदस्य द्वितीयमुदाहरणं तावद्यथा –
उक्खअदुमं व सेलं हिमहअकमलाअरं व लच्छिविमुक्कम् ।
पीअमइरं व चसअं बहुलपओसं व मुद्धअंदवरहिअम् ।।7
संस्कृतछाया –
(उत्खातद्रुममिव शैलं हिमहतकमलाकरमिव लक्ष्मीविमुक्तम् ।
पीतमदिरमिव चषकं बहुलप्रदोषमिव मुग्धचन्द्रविरहितम् ।।)
अत्र हि उपमानवाचिभ्यां शब्दाभ्यामेवानन्तरम् इवशब्दः प्रयोक्तव्यः । यथा अत्रैव कमलाकारमिव बहुलप्रदोषमिव इति शब्दाभ्यामेवानन्तरमिव शब्दः प्रयुक्तः । स इवशब्दो हि यदनन्तरं श्रूयते तत्रैव उपमानभावस्य सम्यक्प्रतीतिर्भवति । अन्यत्र चास्य प्रयोगात् अर्थपरिवर्तनस्य सम्भावना जायते । काव्यजगति एतादृशः प्रयोगो न भवति – गौरमिव इन्दुबिन्बं तव मुखमिति । अत्र इवशब्दस्य प्रयोगः तथा नाभवत् अतोऽत्र क्रमभेदो दोषः । दोषवारणाय शैलमिवोत्खातद्रुमम् इति प्रयोगः विधातव्यः।
निपातानां प्रयोगे क्रमभेदस्य तृतीयमुदाहरणं तावद्यथा –
धरस्योद्धर्त्तासि त्वमिति ननु सर्वत्र जगति,
प्रतीतस्तत्किं मामतिभरमधः प्रापिपयिषुः ।
उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ
बलाक्रान्तः क्रीडद् द्विरदमथितोर्वीरुहरवैः।।8
अत्र ‘उपालब्धेवोच्चैर्गिरिपतिरिति श्रीपतिमसौ’ इति पाठे निपातगतक्रमभेददोषत्वात् प्रयोगोऽयं नोचितः । ‘इतीवोपालब्ध क्षितिधरपतिः श्रीपतिमसौ’ इति पाठः श्रेयान् । यतो हि अत्र ‘उपालब्धेवोच्चैर्गिरिपतिः इत्येतत्पर्यन्तोक्तिरवच्छेत्तु नाभिमता । न च पदसम्बन्धस्य पुरुषाधीनत्वात् ‘प्रापिपयिषुः’ इति पदेनैव अस्याभिसम्बन्धो न गिरिपतिपदेनेति शक्यते वक्तुम् ।
निपातानां प्रयोगे क्रमभेदस्य चतुर्थमुदाहरणं तावद्यथा –
प्रतीक्ष्यं च प्रतीक्ष्यायै पितृस्वस्रे सुतस्य ते ।
सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत् ।।9
अत्रापि हि ‘सहिष्ये शतमागांसि प्रत्यश्रौषीः किलेति यत्’ अत्र ‘किल’ इति निपातस्य अनुचितस्थानप्रयोगात् क्रमभेददोषः । अत्र यदि उक्तपाठापेक्षया ‘सहिष्ये शतमा-गांसीत्यभ्युपैर्यत् किल स्वयम्’इति पाठः स्तात्तर्हि निर्दोषता ।
निपातानां प्रयोगे क्रमभेदस्य पञ्चममुदाहरणं तावद्यथा –
‘कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी’
अत्र हि द्वितीयः चशब्दो भिन्नक्रमः स हि त्वम् इत्यस्यानन्तरं प्रयोक्तव्यः ।
एवमत्र व्यक्तिविवेककारदिशा क्रमभेदाख्यं तृतीयं शब्दविषयकमनौचित्यमत्र विविधोदाहरणपुरस्सरं विवेचितम् ।
सन्दर्भसूची
1. ध्वन्यालोकः पृ.सं.190
2. व्यक्तिविवेकः पृ.सं.179
3. रघुवंशमहाकाव्यम् 16/33
4. व्यक्तिविवेकः पृ.सं.326
5. व्यक्तिविवेकः पृ.सं.328
6. व्यक्तिविवेकः पृ.सं.328
7. व्यक्तिविवेकः पृ.सं.329
8. शिशुपालवधमहाकाव्यम् 5/69
9. शिशुपालवधमहाकाव्यम् 2/108
10. व्यक्तिविवेकः पृ.सं.328
0 comments:
Post a Comment