जैनदर्शने प्रेक्षाध्यानस्य अवधारणा


      प्रस्तावना
      प्रेक्षाध्यानस्य परिचयः
      प्रेक्षाध्यानस्य अर्थः स्वरुपञ्च
      प्रेक्षाध्यानस्य पञ्चसूत्राणि
      प्रेक्षाध्यानाभ्यासस्य विधयः
      प्रेक्षाध्यानस्य अष्टौ प्रयोगाः
      उपसंहारः

Ø प्रस्तावना -   
यथा विविधदर्शनेषु मोक्षस्य स्वरूपं प्रतिपादितं तद्वदेव जैनदर्शेऽपि मोक्षस्य स्वरूपं प्रतिपादितमस्ति । आचार्य उमास्वामिना तत्त्वार्थसूत्रे मोक्षस्य लक्षणं प्रोक्तम् – बन्धहेत्वाभावनिर्जराभ्यां कृत्स्नकर्मविप्रमोक्षो मोक्षः1 इति । अर्थात् ज्ञानावरणाद्यष्टकर्मरहितावस्था मोक्ष इत्युच्यते । मोक्षमार्गं प्रतिपादयिता आचार्येण निगदितम् – सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्गः 2 इति अर्थात् सम्यग्दर्शन-सम्यग्ज्ञान-सम्यक्चारित्राणि इति त्रीणि मिलित्वा मोक्षस्य मार्गो विद्यते । तत्र सम्यग्दर्शनस्य स्वरूपं विवेचयता आचार्येण निगदितम् – तत्त्वार्थश्रद्धानं सम्यग्दर्शनम् 3 , अर्थात् जीवादिसप्ततत्त्वेषु श्रद्धानेन सम्यग्दर्शनं भवति । कानि सप्ततत्त्वानि इति उदितायां जिज्ञासायां समादधाति आचार्यः जीवाजीवास्रवबन्धसंवरनिर्जरामोक्षास्तत्त्वम् 4 इति अर्थात् जीवः अजीवः आस्रवः बन्धः संवरः निर्जरा मोक्षश्च इति सप्ततत्त्वानि वर्तन्ते ।  एतानि तत्त्वानि सम्यग्रूपेण विज्ञाय सश्रद्धया आचरणे आनेतव्यानि सन्ति । एतेषु सप्ततत्त्वेषु मोक्षस्य मुख्यतया उपायद्वयम् संवरः निर्जरा च  । आगच्छतां कर्मणां संवरणं संवरः ,  आगतानां कर्मणाम् एकदेश निर्जरणं निर्जरा भवति । संवरनिर्जरार्थं तपसो महती भूमिका वर्तते तस्मादेव आचार्येन भणितम् – तपसा निर्जरा च 5 इति अर्थात् तपोद्वारा निर्जरा भवति । जैनदर्शने षट् बहिरङ्गतपांसि कथितानि सन्ति – अनशनावमोदर्यवृत्तिपरिसंख्यान-रसपरित्याग-विविक्तशय्यासन-कायक्लेशा बाह्यं तपः 6 इति । अपि च षडेव अन्तरङ्गतपांसि प्रोक्तानि सन्ति – प्रायश्चित्त-विनय-वैयावृत्य- स्वाध्याय-व्युत्सर्ग-ध्यानान्युत्तरम् 7 इति । शास्त्रेष्वाचार्यैः सर्वश्रेष्ठं तपः ध्यानं वर्तते इत्यवादि । सन्दर्भेस्मिन् द्विविधध्यानं प्रोक्तम् प्रशस्तध्यानम् अप्रशस्त-ध्यानम् । आर्तरौद्रध्याने अप्रशस्ते , धर्मशुक्लध्याने च प्रशस्ते इति । मोक्षस्य कारणस्वरूपे धर्मशुक्लध्याने वर्तेते , यथोक्तं – परे मोक्षहेतू 8
जैनदर्शनस्य सर्वाणि शास्त्राण्यधित्य आगमानां पर्यालोचनं विधाय आचार्यमहाप्रज्ञद्वारा ध्यानस्य एको नूतनविधिराविष्कृतो यस्य नाम प्रेक्षाध्यानम् इति वर्तते ।
Ø प्रेक्षाध्यानस्य परिचयः
जैनपरम्परायां ध्यानस्य अतीवप्राचीनः विशिष्टश्च प्रयोगो वर्तते । मोक्षमार्गे अमुष्य नितरां महत्त्वं प्रतिपादितं वर्तते । आधुनिकयुगे जनानां तादृशं संहननं न वर्तते येन शुक्लध्यानं स्यात् अथवा तादृशं ज्ञानं स्थैर्यं च न वर्तते येन धर्मध्यानं प्रतिदिनं कुर्यात् । अतः लोकानां परिस्थितिं विज्ञाय , प्रतिदिनं ध्यानाभ्यासे तेषामभिरुचिर्वर्धेत तदर्थं   श्वेताम्बर-तेरापंथाचार्यैः आचार्यतुलसि-महाप्रज्ञाख्यैः प्राचीनजैनग्रन्थाननुशील्य ध्यानविषये अभिनवप्रयोगो विहितो यस्य नाम प्रेक्षाध्यानम् इति वर्तते ।  







Ø प्रेक्षाध्यानस्य अर्थः स्वरुपञ्च
प्रेक्षाध्यानस्यादौ व्युत्पत्तिं विचारयामः ।  प्र-उपसर्गपूर्वकात्  ईक्ष्-धातोः अच्प्रत्ययेन टाप्प्रत्ययेन च प्रेक्षाशब्दो निष्पद्यते ।  यस्यार्थः प्रकर्षेण गहनतया वा  अवलोकनम् । प्रेक्षणम् अवलोकनं मूलतत्त्वं यस्मिन् ध्याने तत् प्रेक्षाध्यानम् । एतादृशं ध्यानस्य नूतनस्वरूपम्  अन्येष्वपि मतेषु वर्णितं वर्तते यथि बौद्धमते  विपश्यना इति नाम्ना प्रथितमेतत् ध्यानम् , वैष्णवमते साक्षी इति नाम्ना प्रसिद्धमदो ध्यानम् ।  स्थूलात् सूक्ष्मावलोकनमत्र विधीयते । स्थूलात् आत्मनः सूक्ष्मम् आत्मावलोकनम् । स्थूलात् मनसः सूक्ष्मं मनोऽवलोकनम् , स्थूलायाः चेतनायाः सूक्ष्मां चेतनामवलोकन- मत्र विधीयते । शास्त्रेषु जीवस्य लक्षणं गदितम्   ज्ञानदर्शनलक्षणयुतं चैतन्यम् । जीवोयं प्रायः आत्मनो ज्ञानमनुभवं वा विधत्ते किन्तु दर्शन न विदधाति । अर्थात् आत्मनि विद्यमानानां  चेतनानां  भावनानाम् अनुभवं तु वयं कुर्मः किन्तु तादृशाभ्यासाभावाद् दर्शनं नैव कुर्मः । प्रेक्षणस्येह साधनाया नामैव प्रेक्षाध्यानं वर्तते ।  यदा ज्ञानं भवति तदा दर्शनं नैव भवति । अर्थात् यदा वयं चिन्तनं कुर्मः तदा अवलोकनं न , यदा अवलोकनं कुर्मः तदा चिन्तनं नैव कुर्मः । उभयोः साहाय्येन न सम्यक्तया अवलोकनं भवति न च चिन्तनं भवति । चिन्तनस्य परम्परामिमाम् अवरोद्धुम् अवलोकनं प्रेक्षणं वा अत्यावश्यकम् । स्थिरो भूत्वा विचारान् शरीरान्तर्गतानुभूयमानप्रकम्पान् प्रेक्षते ध्याता । एतत् प्रेक्षणमेव प्रेक्षा वर्तते ।
Ø प्रेक्षाध्यानस्य पञ्चसूत्राणि
प्रेक्षाध्यानस्याभ्यासात् पूर्वं केचन नियमाः कानिचित् सूत्राणि निश्चानि सन्ति येषामनुपालनं ध्यातृभिरवश्यं कर्त्तव्यम् । आचार्यतुलसिना इमानि पञ्चसूत्राणि कथितानि -  1. भावकक्रिया – चित्तस्य एकाग्रतायाः प्रयासः 2 . श्रुतिक्रिया - विशिष्टं श्रोतुं परिज्ञातुं वा तत्परता स्यात्  3. मैत्रिभावः – जगत्यस्मिन् विद्यमानेषु समस्तजीवेषु दयाभाव एव मैत्रिभावः । 4. भोजनसंयमः – यः खलु प्रेक्षाध्यानस्य ध्याता भवेत् सः शुद्ध-सात्विक-मर्यादित-भोजनमेव कुर्यादिति ।  5 . वाणीसंयमश्च - हित-मित-प्रियभाषणं विदध्यात् । एतेषां नियमानां पालनेनैव सः ध्यानं कर्तुं शक्नोति ,अन्यथा ध्याने एकाग्रता नाभिष्यत् ।
प्रेक्षाध्यानस्य अष्टौ प्रयोगाः –
प्रेक्षाध्यानस्य अष्टौ प्रयोगाः विद्यन्ते तद्यथा - कायोत्सर्गः (श्वसनम्), अन्तर्यात्रा, श्वासप्रेक्षा, शरीरप्रेक्षा, चैतन्यकेन्द्रप्रेक्षा, लेश्याध्यानम्, अनुप्रेक्षा, भावना च । समासेनात्र समेषां परिचयः प्रस्तूयते –
1.कायोत्सर्गः  -  कायाया उस्तर्ग इति कायोत्सर्गः । अर्थात् शरीरं प्रति ममत्वपरिणामस्य त्यागः कायोत्सर्ग उच्यते । ध्यानाभ्यासस्य प्रथममेतत् सोपानम् । अनेन चित्तं स्थिरं शान्तं प्रसन्नञ्च भवति । मानसिकव्याधिपनयति । अनेन न केवलं शरीरं शीथलीभवति प्रत्युत आत्मज्ञानायापि प्रवर्धते जीवः ।
2. अन्तर्यात्रा  - कायोत्सर्गात् परम् अन्तर्यात्रा विधीयते । क्रमबद्धरूपेण ध्यानसाधनायै अत्यधिकजैवविद्युतीयस्नायविकोर्जाया आवश्यकता भवति । मेरुदण्डः केन्द्रियस्नायुप्रणाल्या एकः अन्तरङ्गः भागः अस्ति । अपि च मेरुदण्डस्य अधोभागः शक्तिकेन्द्रस्य भागः अस्ति । यत्र कुण्डलिनीशक्तिः वर्तते । अन्तर्यात्राया अभ्यासेन चेतनतरङ्गः मस्तिष्कं शक्तिकेन्द्रतः ज्ञानकेन्द्रं प्रति गन्तुं मुहुर्मुहुः प्रेरयति । परिणामतः महत्त्वपूर्णजैवविद्युतीयोर्जाया अर्थात् कुण्डलिनीशक्तेः उपरि गन्तुं प्रवाहो वर्धते । एवं शक्तिकेन्द्रतः ज्ञानकेन्द्रं प्रति ऊर्जायाः प्रवाहो ध्यानाभ्यासाय लाभप्रदो वर्तते ।
3. श्वासप्रेक्षा – श्वसनक्रियाया उपयोगः न केवलं भोजनपाचनादिक्रियार्थं महत्त्वपूर्णं वर्तते , प्रत्युत अस्याः सम्बन्धः चेतनमस्तिष्केनापि वर्तते । अस्मिन् प्रयोगे साधकः दक्षिणनासिकातः श्वासं गृहीत्वा वामनासिकातः श्वासं त्यजति तथैव वामनासिकातः श्वासं गृहीत्वा दक्षिणनासिकातः श्वासं त्यजति । अनेन दीर्घश्वास-गहनश्वासाभ्यासः शनैः शनैः कर्त्तव्यः । ध्यातव्यमेतत् यत् अभ्यासकाले मनः श्वासोच्छ्वास-प्रक्रियायामेव केन्द्रितं स्यात् ।
 4. शरीरप्रेक्षा – मुख्यतः प्रक्रियेयं केन्द्राभिमुखिप्रक्रिया भवति । अत्र शरीरस्य सर्वेषु कोषेषु आध्यात्मिकसंवेदना प्रतिष्ठते । ततः सर्वे कोषा एतावन्तः संवेदनशीलाः सूक्ष्माश्च भवन्ति येन पाचनादिक्रिया सारल्येन भवति । शारीरिकस्तरेण प्रक्रियेयं शरीरस्य सर्वान् कोषान् शक्तिसम्पन्नान् विदधाति । मानसिकस्तरेण मनः मस्तिष्कञ्च बहिर्भ्रमणाद् रुणद्धि , तच्च स्थिरं शान्तञ्च करोति ।
5. चैतन्यकेन्द्रप्रेक्षा – शरीरस्य मुख्यतः द्वे नियन्त्रणप्रणाल्यौ वर्तेते । अन्तःस्रावीप्रणाली स्नायुप्रणाली च । अन्तःस्रावीप्रणाली संवेगान् भावनाश्च नियन्त्रणं करोति । स्नायुप्रणाली स्नायुद्वारा मनसः अस्पष्टातिन्द्रियसंकेतान् विज्ञाय क्रियाशीलं करोति । द्वयोः प्रणाल्योः संघटितं कार्यं वर्तते कस्यापि जनस्य मानसिक-शारीरिकस्थितिषु व्यवहारेषु नियन्त्रणकरणम् ।
चैतन्यकेन्द्रप्रेक्षायां विभिन्नान्तःस्राविप्रणालिसम्बन्धितानां विविधचैतन्यकेन्द्राणां वर्णनं विद्यते । तद्यथा – पिनीयल – ज्योतिकेन्द्रम् , पिट्यूरी – पियूषिका , पैराथायिराईड – दर्शनकेन्द्रम् , थायराइड – विशुद्धिकेन्द्रम् , थायमस – आनन्दकेन्द्रम् , एड्रिनल – तैजसकेन्द्रम् , गोनाडस- स्वास्थ्यकेन्द्रम् अथवा शक्तिकेन्द्रम् । एतेषां चैतन्यकेन्द्राणां ज्ञानं प्राप्य यो जनः अन्तःस्राविग्रन्थिनां विकासं करोति असौ मनो नियन्त्रणं कर्तुं प्रभवति। तार्किकशक्तेः विकासो भवति । मानसिकस्थिरतां प्राप्नोति ।  
6. लेश्याध्यानम्   ध्यानाभ्यासस्यायं अन्यतमो विधिः । अस्यां साधनायां मनः पञ्चस्थानेषु केन्द्रितं भवति । 1. ज्ञानकेन्द्रम् – केन्द्रमेतत् शरीरस्य उपरि मस्तिष्के स्थितमस्ति ।शक्तिकेन्द्रमदो हरितवर्णीयं भवति । 2. ज्योतिकेन्द्रम् – केन्द्रमिदं ललाटस्य मध्ये स्थितमस्ति । यस्याकारः अर्धचन्द्रवत् वर्णश्च श्वेतो भवति ।           3. दर्शनकेन्द्रम् – उभयोः भ्रुवयोः मध्ये स्थितं केन्द्रं दर्शनकेन्द्रमुच्यते ।अस्य च वर्ण अरुणो भवति । 4. विशुद्धकेन्द्रम् – कण्ठमूले विशुद्धकेन्द्रस्य स्थानं विद्यते अस्य च वर्णो नीलः । 5. आनन्दकेन्द्रम् – हृदयस्य पार्श्वे आनन्दकेन्द्रं भवति । अस्यापि वर्णो हरितः । 
    ध्यानमेतत् श्रेष्ठतमं ध्यानं वर्तते । ध्यानस्य विधिरयं रङ्गध्यानम् इति नाम्नापि प्रसिध्दिमवाप । लेश्याध्यानसाधना तादृशी एका शक्तिः वर्तते या  मानवस्वभावस्य अज्ञातसूक्ष्मशक्तिं ज्ञातसूक्ष्मशक्तिरूपेण परिवर्तते । प
7. अनुप्रेक्षा , 8. भावना  
वास्तविकज्ञाने एकाग्रता विचारेषु च एकाग्रता इति प्रेक्षाध्याने एकाग्रतायाः द्वैविध्यं भवति । वास्तविकज्ञाने एकाग्रता प्रेक्षा इत्युच्यते । किन्तु विचारेषु या एकाग्रता भवति सा अनुप्रेक्षा इत्यभिधीयते । अनुप्रेक्षाध्यानान्तर्गतं  मस्तिष्कस्य विचाराणां चिन्तने मनने च चित्तस्य एकाग्रता भवति ।







सन्दर्भसूची –
1.   तत्त्वार्थसूत्रम् – 10 . 2
2.   तत्त्वार्थसूत्रम् 1.1
3.   तत्त्वार्थसूत्रम् 1.2
4.   तत्त्वार्थसूत्रम् 1.4
5.   तत्त्वार्थसूत्रम् 9.3
6.   तत्त्वार्थसूत्रम् 9.19
7.   तत्त्वार्थसूत्रम् 9.20 
8.   तत्त्वार्थसूत्रम् 9.29

SHARE

Milan Tomic

Hi. I’m Designer of Blog Magic. I’m CEO/Founder of ThemeXpose. I’m Creative Art Director, Web Designer, UI/UX Designer, Interaction Designer, Industrial Designer, Web Developer, Business Enthusiast, StartUp Enthusiast, Speaker, Writer and Photographer. Inspired to make things looks better.

  • Image
  • Image
  • Image
  • Image
  • Image
    Blogger Comment
    Facebook Comment

0 comments:

Post a Comment